ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति ३३.
गंडूषवारिणा तेन स्नपनं च कृतं महत् ३३.
अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना ३३.
पुष्कसोऽथ दुराचारो वॉक्षादवततार सः ३३.
लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी ३३.
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता ३३.
चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी ३३.
तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः ३३.
किं वा केसरलोभेन सिंहेनैव विदारितः ३३.
किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः ३३.
क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति ३३.
नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया ३३.
अथ प्रभाते विमले पुष्कसी वनमाययौ ३३.
भ्रममाणावने तस्मिन्ददर्श महतीं नदीम् ३३.
तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे ३३.
तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय ३३.
कृतं किमद्य रे मंद गतेऽहनि च किं कृतम् ३३.
नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ ३३.
तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि ३३.
आवयोर्भक्षितं चान्नमनेनैव च पापिना ३३.
एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः ३३.
किमनेन शरीरेण नश्वरेण गतायुषा ३३.
ये पुष्णंति निजं देहं सर्वभावेन चाहताः ३३.
तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम् ३३.
बोधिता तेन चंडी सा पुष्कसेन तदा भृशम् ३३.
शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम् ३३.
यामद्वयं च संजातममावास्यां तु तत्र वै ३३.
विमानानि बहून्यत्र आगतानि तदंतिकम् ३३.
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ३३.
विमानस्थाश्च केचिच्च वृषारूढाश्च केचन ३३.