एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः ३२.
दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः ३२.
तदा निर्भयमापन्नः श्वेतराजो महामनाः ३२.
तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा ३२.
एवं भक्तिपराणां च महेशे च जगद्गुरौ ३२.
श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च ३२.
बहूनां जनमनामंते शिवभक्तिः प्रजायते॥ ३२.
ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशंकरः ३२.
अत्रैवोदाहरंतीममितिहासं पुरातनम् येनैव तारितं विश्वं जगदेतच्चराचरम्॥ ३२.
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम् ३३.
तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम् तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः॥ ३३.
एवमुक्तस्तदा तेन शौनकेन महात्मना ३३.
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान् ३३.
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु ३३.
खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान् ३३.
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ३३.
एवं विहरतस्तस्य बहुकालोत्यवर्तत ३३.
निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम् कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि॥ ३३.
माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ३३.
श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि ३३.
ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति ३३.
गंडूषवारिणा तेन स्नपनं च कृतं महत् ३३.
अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना ३३.
पुष्कसोऽथ दुराचारो वॉक्षादवततार सः ३३.
लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी ३३.
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता ३३.
चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी ३३.
तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः ३३.
किं वा केसरलोभेन सिंहेनैव विदारितः ३३.
किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः ३३.