शंभुः प्रहस्याथ तदा महेशः संजीवयामास पिनाकपाणिः ३२.
उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम् ३२.
कालांतक त्रिपुरेश त्रिपुरांतकर प्रभो ३२.
दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः ३२.
ग्रसितं तत्त्वया शंभो अन्येषामपि दुर्द्धरम् ३२.
लयनाल्लिंगमित्युक्तं सर्वैरपि सुरा सुरैः ३२.
लिंगस्य देवदेवस्य महिमानं परस्य च नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने॥ ३२.
नमोनमः कारणकारणाय ते नमोनमो मंगलमंगलात्मने ३२.
त्वमेव सर्वं जगदेवबंधो वेदांतवेद्योऽसि महानुभावः ३२.
त्वं पासि लुंपसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः॥ ३२.
इति स्तुतस्तदा तेन कालेन जगदीश्वरः ३२.
मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते ३२.
मया हतमिदं विश्वं जगदेतच्चराचरम् ३२.
स हि ते चानुगो जातो महाराज प्रयच्छ मे ३२.
एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि ३२.
शिवस्य परमं रूपं त्वमेको नास्ति संशयः ३२.
तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः व्रजंति विविधैर्भार्वैरात्मलक्षणतत्पराः॥ ३२.
तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा ३२.
तदा यमेन स्तवितो मृत्युना यमदूतकैः ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः॥ ३२.
मायया सह पत्न्या च शिवस्य चरितं महत् ३२.
कथयामास सर्वेषां दूतानां स्वयमेव हि ३२.
कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम्॥ ३२.
ये त्रिपुण्ड्रंधारयंति तथा ये वै जटाधराः ३२.
उपजीवनहेतोश्च भिया ये ह्यपि मानवाः ३२.
नानेतव्या भवद्भिश्च मम लोकं कदाचन ३२.
अन्येषां का कथा दूता येऽर्चयंति सदाशिवम् ३२.
रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुंड्रं च ललाटमध्यके ३२.
यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः॥ ३२.
यस्मिन्न संति नित्यं हि शिवभक्तिसमन्विताः ३२.
एवमाज्ञापयामास यमोऽपि निजकिंकरान् ३२.