कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत ३२.
तवाज्ञां च करिष्यामि नात्र कार्या विचारणा ३२.
चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः राजानं हंतुमारेभे त्वरितः खड्गमाददे॥ ३२.
त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम् स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम्॥ ३२.
ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम् ३२.
एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन ३२.
सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च ३२.
नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके ३२.
निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना ३२.
ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम् ३२.
ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः ३२.
ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम् ३२.
पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना ३२.
नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे ३२.
त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा ३२.
किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः ३२.
एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम् ३२.
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः ३२.
एवमुक्तस्तदा तेन शंभुना राजसत्तमः ३२.
किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः ३२.
एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः ३२.
भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः ३२.
बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः॥ ३२.
ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत्॥ ३२.
कालेनैव हि लोकोऽयं पुण्यमाचरते सदा ३२.
उपासनारताः केचिज्ज्ञानिनो हि तथा परे ३२.
कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः ३२.
यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम् ३२.
तर्ह्येवं कुरु शंभो त्वं कालस्य च महात्मनः ३२.
इति विज्ञापितस्तेन राज्ञा शंभुः प्रतापिना ३२.