एकदा पूजमानं तं शंकरं परमार्थदम् ३२.
वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति ३२.
राजानं नेतुकामास्ते पाशहस्ता महाभयाः ३२.
न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि ३२.
उद्धृत्य दंडं सहसा नेतुकामस्तदा नृपम् ३२.
शिवभक्तियुतं शांतं केवलं ज्ञानसंयुतम् ३२.
चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः ३२.
आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः ३२.
तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम् ३२.
कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान् ३२.
कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत ३२.
तवाज्ञां च करिष्यामि नात्र कार्या विचारणा ३२.
चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः राजानं हंतुमारेभे त्वरितः खड्गमाददे॥ ३२.
त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम् स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम्॥ ३२.
ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम् ३२.
एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन ३२.
सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च ३२.
नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके ३२.
निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना ३२.
ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम् ३२.
ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः ३२.
ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम् ३२.
पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना ३२.
नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे ३२.
त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा ३२.
किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः ३२.
एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम् ३२.
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः ३२.
एवमुक्तस्तदा तेन शंभुना राजसत्तमः ३२.
किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः ३२.