एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम्
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका
अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् 1.3.1.12.
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः
प्रसादिता मातृगणैर्गंधदानविभूषणैः
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता
कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा
प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः
सर्वदिक्पालकांताभिः समेता शैलबालिका
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती
दुष्करस्योदवासस्य बोधयन्तीव साधुताम्
क्रीडामिव पुराभ्यस्तां तपसापि च संगता 1.3.1.12.
संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता
अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता
क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये
अधःकृताभ्रतडितो जिगीषंतीव चामरीः
सिद्धचारणगंधर्वविद्याधरविराजितम्
अष्टापदपथाकारमष्टदिक्पालपूजितम्
अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः
लसत्सुवर्णदुवर्णशालामालासमास्थितम् 1.3.1.12.
वीणावेणुमुखैस्तालैः सालापैरुपरंजितम्
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम्
निशादिवसयोरेवं दर्शयन्निव सर्वदा
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ
व्योमगंगाजलोत्संगशीतलो मरुदाववौ