एते चान्ये च बहवः पर्वता लिंगरूपिणः ३१.
एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः ३१.
त्वया कृता हि गिरयो लिंगरूपिण एव ते ३१.
लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः ३१.
नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च ३१.
राजतं ताम्रमारं च तथा नागमयं परम् ३१.
पवित्राण्येव पूज्यानि सर्वकामप्रदानि च ३१.
ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति॥ ३१.
लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम् ३१.
रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः ३१.
श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः ३१.
पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम् ३१.
पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च ३१.
एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः ३२.
अनेकागमसंवीता यथातत्त्वमुदाहृताः ३२.
धर्मा नानाविधाः प्रोक्ता नंदिनं प्रति वै तदा॥ ३२.
श्रुतं कुमारचरितमविशेषं सुमंगलम् ३२.
श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम् ३२.
ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः ३२.
तस्मात्पृच्छामहे सर्वे चरितं शंकरस्य च ३२.
निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत्॥ ३२.
आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम् मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः॥ ३२.
पृथिवीं पालयामास प्रजा धर्मेण पालयन् ३२.
राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा ३२.
आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम् ३२.
वाणी शिवकथायुक्ता परमाश्चर्यसंयुता ३२.
तस्य राज्ञो न बाधंते तथा चोपद्रवास्त्वमी ३२.
अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि ३२.
न पुत्रमरणे दुःखं नापमानं न मारकाः ३२.
एवं बहुतरः कालस्तस्य राज्ञो महात्मनः ३२.