शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च ३१.
अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः ३१.
प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम् ३१.
श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः ३१.
ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः ३१.
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते ३१.
एतत्सर्वं समासेन कथयामि निबोध मे ३१.
यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम ३१.
तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च ३१.
निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते ३१.
मायामयोऽयं संसारो ममतालक्षणो महान् ३१.
कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः ३१.
निष्फलोऽयं निराभासो निःसारो धूमडंबरः ३१.
एवं प्रचोदितस्तेन शंभुना प्रेतराट्स्वयम् ३१.
कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः ३१.
हत्वा तु तारकं युद्धे कुमारेण महात्मना ३१.
हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः ३१.
नमः कल्याणरूपाय नमस्ते विश्वमंगल ३१.
वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया ३१.
नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः ३१.
नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ ३१.
एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः ३१.
भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना ३१.
भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः ३१.
पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा ३१.
अयनानि विचित्राणि शोभनानि महांति च ३१.
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ३१.
मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति ३१.
लिंगरूपो हि भगवान्भविष्यति न चान्यथा ३१.
माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः ३१.