एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति ३१.
अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम् ३१.
संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा ३१.
शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे ३१.
सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा ३१.
एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः ३१.
शशविषाणमेवैतज्त्रानं संसार एव च ३१.
ममतां च निराकृत्य प्राप्तुकामाः परं पदम् ३१.
यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ ३१.
यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ ३१.
शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च ३१.
अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः ३१.
प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम् ३१.
श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः ३१.
ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः ३१.
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते ३१.
एतत्सर्वं समासेन कथयामि निबोध मे ३१.
यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम ३१.
तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च ३१.
निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते ३१.
मायामयोऽयं संसारो ममतालक्षणो महान् ३१.
कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः ३१.
निष्फलोऽयं निराभासो निःसारो धूमडंबरः ३१.
एवं प्रचोदितस्तेन शंभुना प्रेतराट्स्वयम् ३१.
कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः ३१.
हत्वा तु तारकं युद्धे कुमारेण महात्मना ३१.
हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः ३१.
नमः कल्याणरूपाय नमस्ते विश्वमंगल ३१.
वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया ३१.
नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः ३१.