यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि ३१.
कुमारस्य च देवेश महदाश्चर्यकर्मणः ३१.
शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह ३१.
कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै ३१.
यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत्॥ ३१.
येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् ३१.
सत्तीर्थगमनायैव दर्शनार्थं सतामिह ३१.
बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते ३१.
तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते ३१.
स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म ३१.
तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः ३१.
जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च॥ ३१.
विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके ३१.
वचनं कर्मसंयुक्तं सर्वेषां फलदायकम् कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा॥ ३१.
मनसा भावितो ह्यात्मा आत्मनात्मानमेव च ३१.
अहं सदा भावयुक्त आत्मसंस्थो निरंतरः ३१.
द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः ३१.
विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम् ३१.
अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः ३१.
अहंकारवृतेनैव कर्मणा कारितावयम् ३१.
पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी ३१.
पतिता मृगतृष्णायां मायया च वशीकृताः ३१.
परस्परं दूषयंतो मिथ्यावादरताः खलाः॥ ३१.
त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः ३१.
परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः ३१.
गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्॥ ३१.
यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम् ३१.
न तद्भासयते शब्दः कृतकत्वाद्यथा घटः ३१.
प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः ३१.
निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम् ३१.