तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत् ३०.
यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च ३०.
एवं परस्परेणैव कुमारश्चैव तारकः ३०.
अभ्यासपरमावास्तामन्योन्यविजिगीषया ३०.
धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः ३०.
विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै ३०.
हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः ३०.
लोकालोकौ महाशैलौ मानसोत्तरपर्वतः ३०.
उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान्॥ ३०.
एते चान्ये च बहवः पर्वताश्च महाप्रभाः ३०.
ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः ३०.
मा खिद्यत महाभागा मा चिंता क्रियतां नगाः ३०.
एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान् ३०.
कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः॥ ३०.
ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः ३०.
हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम् ३०.
एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः ३०.
परिष्वज्य तु गाढेन गिरिजापि तुतोष वै ३०.
लालयामास तन्वंगी पार्वती रुचिरेक्षणा ३०.
आर्यासनगता साध्वी शुशुभे मितभाषिणी ३०.
नीराजिता तदा देवैः पार्वती शंभुना सह ३०.
हिमालयस्तदागत्य पुत्रैश्च परिवारितः ३०.
तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह कुमारमग्रतः कृत्वा नीराजनपरा बभुः॥ ३०.
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ३०.
कुमारविजयंनाम चरित्रं परमाद्भुतम् ३०.
ये कीर्त्तयंति शुचयोऽमितभाग्ययुक्ताश्चानंत्यरूपमजरामरमादधानाः ३०.
यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः ३०.
हत्वा तं तारकं संख्ये कुमारेण महात्मना ३१.
कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम् ३१.
कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा दर्शनाद्धूतपापास्ते भवंत्येव न संशयः॥ ३१.