त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम् ३०.
शूलप्रहाराभिहतो निपपात महीतले ३०.
जघान परया शक्त्या वीरभद्रं तदोरसि ३०.
सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः ३०.
तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम्॥ ३०.
त्रिशूलेन तदा यावद्धंतुकामो महाबलः ३०.
जगर्ज च महातेजाः कार्त्तिकेयो महाबलः॥ ३०.
तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः ३०.
तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः ३०.
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ३०.
परस्परं वंचयंतौ सिंहाविव महाबलौ ३०.
पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः ३०.
अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ ३०.
मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे ३०.
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ३०.
ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते ३०.
तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति ३०.
श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः ३०.
शक्त्या तया महाबाहुराजघान स्तनांतरे ३०.
तं प्रहारमना दृत्य तारको दैत्यपुंगवः ३०.
तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत् ३०.
यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च ३०.
एवं परस्परेणैव कुमारश्चैव तारकः ३०.
अभ्यासपरमावास्तामन्योन्यविजिगीषया ३०.
धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः ३०.
विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै ३०.
हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः ३०.
लोकालोकौ महाशैलौ मानसोत्तरपर्वतः ३०.
उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान्॥ ३०.
एते चान्ये च बहवः पर्वताश्च महाप्रभाः ३०.