तारकेण पुरा वीर तपस्तप्तं सुदारुणम् २९.
तपसा तेन चोग्रेण अजेयत्वमवाप्तवान् २९.
त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना २९.
सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै विमाना दवतीर्याथ पदातिः परमोऽभवत्॥ २९.
पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी २९.
दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम् २९.
अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान् २९.
इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम् २९.
कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः २९.
पुरा येन कृतं कर्म विदितं सर्वमेव तत् २९.
कश्यपस्यात्मजेनैव बहुरूपो हतोऽसुरः २९.
कुमारं हंतुमोसौ देवेंद्रो बलघातकः २९.
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः दर्शयिष्यामि ते वीर रणे रणविशारद॥ २९.
इत्येवमुक्त्वा स तदा महात्मा दैत्याधिपो वीरवरः स एकः २९.
इति परमरुषभिभूतो दितितनयः परीवृतोऽसुरेंद्रैः २९.
वल्गमानं तमायांतं तारका सुरमोजसा ३०.
तेन वज्रप्रहारेण तारको विह्वलीकृतः पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम्॥ ३०.
पुरंदरं गजस्थं हि अपातया भूतले ३०.
तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो ३०.
हतं देवेंद्रमालोक्य तारको रिपुसूदनः ३०.
त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम् ३०.
शूलप्रहाराभिहतो निपपात महीतले ३०.
जघान परया शक्त्या वीरभद्रं तदोरसि ३०.
सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः ३०.
तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम्॥ ३०.
त्रिशूलेन तदा यावद्धंतुकामो महाबलः ३०.
जगर्ज च महातेजाः कार्त्तिकेयो महाबलः॥ ३०.
तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः ३०.
तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः ३०.
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ३०.