यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम्
आविर्बभूव तेजोभिरापूर्य भुवनांतरम्
कालाग्निकोटिसंकाशं तेजः परमदृश्यत
विस्मयाक्रांतहृदया ननंद नलिनेक्षणा 1.3.1.12.
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव
अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात्
जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम्
अकरोन्मय्यविश्वासं लिंगरूपे गले स्थिते
मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन्
चिरं मल्लिंगधृग्यस्मात्सिद्धिरस्यापि देव्यतः
न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकांक्षिभिः
न तादृशं फलं दत्ते वज्रवत्तं निहंति च 1.3.1.12.
सफला नयनावाप्तिः सर्वदोषविनाशनात्
त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम्
प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा
भज मां करुणामूर्तिरपीतकुचनायिका
प्रणम्य प्रार्थितवती प्रोवाच च तमंबिका
एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम्
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका
अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् 1.3.1.12.
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः
प्रसादिता मातृगणैर्गंधदानविभूषणैः
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता
कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा