विनाम्य चापं हि तथा च तारकः स योद्धुकामः प्रविवेश सेनाम् २९.
गणैः समेतो युयुधे तदानीं स वीरभद्रो हि महाबलश्च स दैत्यवर्योऽतिरुषं प्रविष्टः संमर्दयामास महाबलो हि॥ २९.
ततः समभवद्युद्धं देवदानवसंकुलम् २९.
तथा वृषा गर्जमाना अश्वाञ्जघ्नुश्च सादिभिः २९.
वृषारूढौः सरथैस्ते च सर्वे निष्पाटिता ह्यसुराः पोथिताश्च॥ २९.
क्षयं प्रणीता बहवस्तदानीं पेतुः पृथिव्यां निहताश्च केचित् २९.
केचिच्च शरणं प्राप्ता रुद्रानुचरकिंकरान् तारको हि रुषाविष्टो हंतुं देवगणान्ययौ॥ २९.
भुजानामयुतं कृत्वा दैत्यराजो हि तारकः २९.
दंशितेन च सिंहेन वृषाः केचिद्विदारिताः २९.
एवं कृतं तदा तेन तारकेण महात्मना २९.
जातस्तदा महाबाहुस्त्रैलोक्यक्षयकारकः २९.
महारूढा दंशिताश्च करालास्ते प्रहारिणः २९.
एवं निहन्यमाना वै गणास्ते रणमण्डले २९.
नान्यो हंतास्य पापस्य त्वद्विना कृत्तिकासुत २९.
तारकस्य वधार्थाय उत्पन्नोऽसि शिवात्मज २९.
तच्छ्रुत्वा भगवान्क्रुद्धः पार्वतीनन्दनो महान् २९.
मया निरीक्ष्यते सम्यक्चित्रयुद्धं महात्मनाम् २९.
केऽस्मदीयाः परे चैव न जानामि कथंचन २९.
कुमारस्य वचः श्रुत्वा नारदो वाक्यमब्रवीत्॥ २९.
कुमारोऽसि महाबाहो शंकरस्यांशसंभवः २९.
तारकेण पुरा वीर तपस्तप्तं सुदारुणम् २९.
तपसा तेन चोग्रेण अजेयत्वमवाप्तवान् २९.
त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना २९.
सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै विमाना दवतीर्याथ पदातिः परमोऽभवत्॥ २९.
पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी २९.
दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम् २९.
अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान् २९.
इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम् २९.
कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः २९.
पुरा येन कृतं कर्म विदितं सर्वमेव तत् २९.