गजान्कृत्वा ह्येकतश्च हयांश्च विविधांस्तथा २८.
पदाता बहवस्तत्र शक्तिशूलपरश्वधैः २८.
ते सेने सुरदैत्यानां शुशुभाते परस्परम् २८.
उभे सेने तदा तेषां सुराणां चामरद्विषाम् विरेजतुस्तदान्योऽन्यं गर्जतो वांबुदागमे॥ २९.
एतस्मिन्नन्तरे तत्र वल्गमानाः परस्परम् २९.
युद्धं सुतुमुलं ह्यासीद्देवदैत्यसमाकुलम् २९.
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः २९.
मुचुकुंदो हि बलवांस्त्रैलोक्येऽमितविक्रमः॥ २९.
तारको हि तदा तेन मुचुकुंदेन धीमता प्रसह्य तत्प्रहारं च प्रहसन्वाक्यमब्रवीत्॥ २९.
किं रे मूढ त्वया चाद्य कृतमस्ति बलादिदम् २९.
तारकस्य वचः श्रुत्वा मुचुकुंदोऽभ्यभाषत २९.
दृष्ट्वा मे खड्गसंपातं न त्वं तिष्ठसि चाग्रतः २९.
एवमुक्त्वा तदा वीरो मुचुकुंदो महाबलः मांधातुस्तनयस्तत्र पपात रणमंडले॥ २९.
पतितस्तत्क्षणादेव चोत्थितः परवीरहा॥ २९.
स सज्जमानोतिमहाबलो वै हंतुं तदा दैत्यपतिं च तारकम् २९.
स तारकं योद्धकामस्तरस्वी रुषान्वितोत्फुल्लविलोचनो महान् २९.
न तारको हन्यते मानुषेण तस्मादेतन्मा विमोचीर्महास्त्रम्॥ २९.
निशम्य वचनं तस्य देवर्षेर्नारदस्य च २९.
तदोवाच महातेजा नारदो दिव्यदर्शनः २९.
तस्माद्भवद्भिः स्थातव्यमैकपद्येन युध्यताम् २९.
निशम्य वाक्यं च मनोहरं शुभं ह्युदीरितं तेन महाप्रभेण २९.
ततो दुंदुभयो नेदुः शंखाश्च कृतनिश्चयाः २९.
जगर्जुरसुरास्तत्र देवान्प्रति कृतोद्यमाः २९.
गणैर्बहुभिरासाद्य तारकं च महाबलम् २९.
तदा ते प्रमथाः सर्वे पुरस्कृत्य कुमारकम् २९.
त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपाट्टिशैः २९.
तारको वीरभद्रेण त्रिशूलेन हतो भृशम् २९.
उत्थाय च मुहूर्त्ताच्च तारको दैत्यपुंगवः २९.
स शक्तिं च महातेजा वीरभद्रो हि तारकम् २९.
एवं संयुध्यमानौ तौ जघ्नतुश्चेतरेतरम् २९.