उवाच नारदो वाक्यं तारकं देवकण्टकम्॥ २८.
पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः २८.
कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः २८.
नारदोक्तं निशम्याथ तारकः प्रहसन्निव २८.
मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम् २८.
मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा २८.
तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा २८.
त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि २८.
तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च २८.
भवद्भिः श्रूयतां देवा वचनं मम नान्यथा २८.
त्वां हनिष्यामि रे मूढ नान्यथा मम भाषितम्॥ २८.
मुचुकुन्दं समासाद्य लोकपालैश्च पूजितः २८.
तस्य वाक्यं निशम्योचुः सर्वे देवाः सवासवाः २८.
जानासि त्वं हि देवर्षे कुमारस्य बलाबलम् २८.
प्रहस्य नारदो वाक्यमुवाच तस्य सन्निधौ २८.
जानीध्वममराः सर्वे कुमारं जयिनं सुराः २८.
नारदस्य वचः श्रुत्वा सर्वे देवा मुदान्विताः २८.
कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत् २८.
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः २८.
गजं दत्त्वा महेंद्राय कुमारो यानमारुहत् विचित्रचित्रं सुमहत्तथाश्चर्यसमन्वितम्॥ २८.
विमानमारुह्य तदा महायशाः स शांकरिः सर्वगणैरुपेतः २८.
प्राचे तसं छत्र महामणिप्रभं रत्नैरुपेतं बहुभिर्विराजितम् २८.
संमीलितास्तदा सव देवा इन्द्रपुरोगमाः २८.
यमेऽपि स्वगणैः सार्द्धं मरुद्भिश्च सदागतिः ईशोऽपि प्रमथैः सार्द्धं नैर्ऋतो व्याधिभिः सह॥ २८.
एवं तेऽष्टौ लोकपा योद्धुकामाः सर्वे मिलित्वा तारकं हंतुमेव २८.
एवं ते योद्धुकामा हि अवतेरुश्च भूतलम् २८.
पातालाच्च समायातास्तारकस्योपजीविनः २८.
तारको हि समायातो विमानेन विराजितः २८.
चामरैर्विज्यमानो हि शुशुभे दैत्यराट् स्वयम्॥ २८.
एवं देवाश्च दैत्याश्च अंतर्वेद्यां स्थितास्तदा २८.