तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान् २८.
दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ॥ २८.
वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः २८.
युद्धकामाः सुरा यावत्तावत्सर्वे समागताः २८.
ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता आगता दुहिता मृत्योः सेना नामैकसुंदरी॥ २८.
तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति २८.
ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता २८.
तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः २८.
तेन नादेन महता पूरितं च नभस्तलम् परस्परमथोचुस्ताः सुतो मम ममेति च॥ २८.
एवं विवादमापन्नाः सर्वास्ता मातृकादयः २८.
पार्वत्यां शंकराज्जातो देवकार्यार्थसिद्धये २८.
गुहेनोक्तास्तदा सर्वा ऋषिपत्न्यश्च कृत्तिकाः २८.
तथा मातृगणस्तेन स्वामिना स्थापितो दिवि २८.
इंद्रं प्रोवाच भगवान्कुमारः शंकरात्मजः २८.
इंद्रेणोक्तः कुमारो हि तारकेण प्रपीडिताः २८.
किं पृच्छसि महाभाग अस्मान्पदपरिच्युतान् प्रहस्येंद्रं प्रति तदा मा भैषीत्यभयं ददौ॥ २८.
यावत्कथयतस्तस्य शांकरेश्च महात्नः २८.
आजगाम महादैत्यो दैत्यसेनाभिरावृतः २८.
रणकर्कशतूर्याणि डिंडिमान्यद्भुतानि च २८.
वाद्यभेदा आवाद्यंत तस्मिन्दैत्यसमागमे २८.
उवाच नारदो वाक्यं तारकं देवकण्टकम्॥ २८.
पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः २८.
कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः २८.
नारदोक्तं निशम्याथ तारकः प्रहसन्निव २८.
मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम् २८.
मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा २८.
तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा २८.
त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि २८.
तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च २८.
भवद्भिः श्रूयतां देवा वचनं मम नान्यथा २८.