ऋषयो यक्षगंधर्वाः परिवार्य कुमारकम् २७.
प्रणेमुः शिरसा चान्ये मत्वा स्वामिनमव्ययम् एवमभ्युदये तस्मिन्नृषयः शांतिमापठम्॥ २७.
एतस्मिन्नंतरे यातः शंकरो गिरिजापतिः २७.
पुत्रं निरैक्षत तदा जगदेकबंधुः प्रीत्या युतः परमया सह वै भवान्या २७.
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा २७.
तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः २७.
ऋषयो ब्रह्मगोषेण गीतेनैव च गायकाः २७.
स्वमंकमारेप्य तदा गिरीशः कुमारकं तं प्रभया महाप्रभम् २७.
दंपती तौ तदा तत्र ऐकपद्येन नंदतुः २७.
कुमारः क्रीडयामास उत्संगे शंकरस्य च २७.
मुखं प्रपीडयित्वाऽसौ पाणीनगणयत्तदा २७.
प्रहस्य भगवाञ्छंभुरुवाच गिरिजां तदा॥ २७.
मंदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदंच परमां गिरिजासमेतः २७.
कुमारं स्वांकमारोप्य उवाच जगदीश्वरः २८.
किं कार्यं कथ्यतां देवाः कुमारेणाधुना मम २८.
तारकाद्भयमुत्पन्नं सर्वेषां जगतां विभो २८.
कुमारेण हतोऽद्यैव तारको भविता प्रभो २८.
तथेति मत्वा सहसा निर्जग्मुस्ते तदा सुराः २८.
सर्वे मिलित्वा सहसा ब्रह्मविष्णुपुरोगमाः २८.
सैन्येन महता चैव ययौ योद्धुं सुरान्प्रति २८.
तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान् २८.
दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ॥ २८.
वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः २८.
युद्धकामाः सुरा यावत्तावत्सर्वे समागताः २८.
ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता आगता दुहिता मृत्योः सेना नामैकसुंदरी॥ २८.
तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति २८.
ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता २८.
तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः २८.
तेन नादेन महता पूरितं च नभस्तलम् परस्परमथोचुस्ताः सुतो मम ममेति च॥ २८.
एवं विवादमापन्नाः सर्वास्ता मातृकादयः २८.