षण्मुखं बालकं ज्ञात्वा सर्वे देवा मुदान्विताः २७.
शंभोः पुत्रः प्रसादेन सर्वो भवति शाश्वतः २७.
उपविष्टोथ गांगेयो ह्यहोरात्रोषितस्तदा २७.
जातो यदाथ गंगायां षण्मुखः शंकरात्मजः २७.
शिवं निरीक्ष्य सा प्राह हे शंभो प्रस्नवो महान् सर्वज्ञोऽपि महादेवो ह्यब्रवीत्तामथाज्ञवत्॥ २७.
नारदस्तत्र चागत्य प्रोक्तवाञ्जन्म तस्य तत् २७.
तदाकर्ण्य वचो विप्रा हर्षनिर्भरमानसाः २७.
अनेकाभिः पताकाभिश्चैलपल्लवतोरणैः पर्वतः पुत्रजननाच्छंकरस्य महात्मनः॥ २७.
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः रक्षोगंधर्वयक्षाश्च अप्सरोगणसेविताः॥ २७.
एकपद्येन ते सर्वे सहिताः शंकरेण तु २७.
ततो वृषभमारुह्य ययौ गिरिजया सह २७.
तदा शंखाश्च भेर्यश्च नेदुस्तूर्यीण्यनेकशः॥ २७.
तदानीमेव सर्वेशं वीरभद्रादयो गणाः वादयन्तश्च वाद्यानि ततानि विततानि च॥ २७.
केचिन्नृत्यपरास्तत्र गायकाश्च तथा परे २७.
एवंविधास्ते सुरसिद्धयक्षा गंधर्वविद्याधरपन्नगा ह्यमी २७.
यावत्समीक्षयामासुर्गांगेयं शंकरोपमम् २७.
तत्तोजसावृतं बालं तप्तचामीकरप्रभम् २७.
चारुप्रसन्न वदनं तथा सर्वागसुंदरम् २७.
ववंदिरे तदा बालं कुमारं सूर्यवर्चसम् २७.
परिवार्योपतस्थुस्ते वामदक्षिणभागतः २७.
ऋषयो यक्षगंधर्वाः परिवार्य कुमारकम् २७.
प्रणेमुः शिरसा चान्ये मत्वा स्वामिनमव्ययम् एवमभ्युदये तस्मिन्नृषयः शांतिमापठम्॥ २७.
एतस्मिन्नंतरे यातः शंकरो गिरिजापतिः २७.
पुत्रं निरैक्षत तदा जगदेकबंधुः प्रीत्या युतः परमया सह वै भवान्या २७.
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा २७.
तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः २७.
ऋषयो ब्रह्मगोषेण गीतेनैव च गायकाः २७.
स्वमंकमारेप्य तदा गिरीशः कुमारकं तं प्रभया महाप्रभम् २७.
दंपती तौ तदा तत्र ऐकपद्येन नंदतुः २७.
कुमारः क्रीडयामास उत्संगे शंकरस्य च २७.