उवाच शंकरं देवं भवत्तेजो दुरासदम् २७.
ततः प्रोवाच भगवानग्निं प्रति महेश्वरः २७.
तथेति मत्वा वचनं महाप्रभः स जातवेदाः परमेण वर्चसा २७.
तदा प्रातः समुत्थाय प्रातः स्नानपराः स्त्रियः २७.
दृष्ट्वा प्रज्वलितं तत्र सर्वास्ताः शीतकर्षिताः २७.
तया निवारिताश्चापि तास्तेपुः कृत्तिकाः स्वयम् विविशू रोमकूपेषु तासां तत्रैव सत्वरम्॥ २७.
नीरेतोग्निस्तदा जातो विश्रांतः स्वयमेव हि॥ २७.
ततस्ता ऋषिभार्या हि ययुः स्वभवनं प्रति २७.
तदानीमेव ताः सर्वा व्यभिचारेण दुःखिताः २७.
एकपद्येन तद्रेतस्तप्तचामीकरप्रभम् २७.
षण्मुखं बालकं ज्ञात्वा सर्वे देवा मुदान्विताः २७.
शंभोः पुत्रः प्रसादेन सर्वो भवति शाश्वतः २७.
उपविष्टोथ गांगेयो ह्यहोरात्रोषितस्तदा २७.
जातो यदाथ गंगायां षण्मुखः शंकरात्मजः २७.
शिवं निरीक्ष्य सा प्राह हे शंभो प्रस्नवो महान् सर्वज्ञोऽपि महादेवो ह्यब्रवीत्तामथाज्ञवत्॥ २७.
नारदस्तत्र चागत्य प्रोक्तवाञ्जन्म तस्य तत् २७.
तदाकर्ण्य वचो विप्रा हर्षनिर्भरमानसाः २७.
अनेकाभिः पताकाभिश्चैलपल्लवतोरणैः पर्वतः पुत्रजननाच्छंकरस्य महात्मनः॥ २७.
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः रक्षोगंधर्वयक्षाश्च अप्सरोगणसेविताः॥ २७.
एकपद्येन ते सर्वे सहिताः शंकरेण तु २७.
ततो वृषभमारुह्य ययौ गिरिजया सह २७.
तदा शंखाश्च भेर्यश्च नेदुस्तूर्यीण्यनेकशः॥ २७.
तदानीमेव सर्वेशं वीरभद्रादयो गणाः वादयन्तश्च वाद्यानि ततानि विततानि च॥ २७.
केचिन्नृत्यपरास्तत्र गायकाश्च तथा परे २७.
एवंविधास्ते सुरसिद्धयक्षा गंधर्वविद्याधरपन्नगा ह्यमी २७.
यावत्समीक्षयामासुर्गांगेयं शंकरोपमम् २७.
तत्तोजसावृतं बालं तप्तचामीकरप्रभम् २७.
चारुप्रसन्न वदनं तथा सर्वागसुंदरम् २७.
ववंदिरे तदा बालं कुमारं सूर्यवर्चसम् २७.
परिवार्योपतस्थुस्ते वामदक्षिणभागतः २७.