पाणिपात्रस्य मे ह्यम्ब भिक्षां देह्यवरोधतः २७.
यावद्दातुं च सारेभे भिक्षां तस्मै ततः स्वयम् २७.
रुद्रस्त्रिशूलमुद्यम्य भैरवो ह्यऽभवत्तदा भिक्षां तस्मै ददौ वाचा अग्नये जातवेदसे॥ २७.
पाणौ भिक्षां गृहीत्वाथ प्रत्यक्षं तेन चाग्निना २७.
रे भिक्षो भविता शापात्सर्वभक्षो ममाशु वै २७.
इत्युक्तो भक्षयित्वाग्नी रेत ईशस्य हव्यवाट् २७.
आगत्याकथयत्सर्वं तद्रेतोभक्षणादिकम् २७.
अग्नेर्यथा हविश्चैव सर्वेषामुपतिष्ठति २७.
सगर्भाह्यभवन्सर्वे चिंतया चप्रपीडिताः २७.
त्वं त्राता सर्वदेवानां लोकानां प्रभुरेव च २७.
वयं सर्वे मर्तुकामा रेतसानेन पीडिताः २७.
शरणं शंकरं याताः परित्रातुं कृतोद्वहाः सुखिनः स्याम सर्वे निर्भयाश्च त्रिविष्टपे॥ २७.
एवं विष्टभ्यमानानां सर्वेषां भयमागतम् २७.
त्रिवर्गो हि यथा पुंसां कृतो हि सुपरिष्कृतः २७.
तस्मात्तद्वै बलं मत्वा सर्वेषामपि देहिनाम् २७.
तथा निशम्य देवानां परेशः परिदेवनम् २७.
स्तूयतां वै महादेवो महेशः कार्यगौरवात्॥ २७.
तथेति गत्वा ते सर्वे देवा विष्णुपुरोगमाः २७.
ॐनमो भर्गाय देवाय नीलकंठाय मीढुषे २७.
त्रिस्वराय त्रिमात्राय त्रिवेदाय त्रिमूर्त्तये २७.
त्राहित्राहि महादेव रेतसो जगतः पते॥ २७.
ब्रह्मणा तु स्तुतो यावत्तावद्देवो वृषध्वजः २७.
दृष्टस्तदानीं जगदेकबंधुर्महात्मभिर्देववरैः सुपूजितः २७.
स्तुवतां चैव देवानामुवाच परमेश्वरः २७.
वमनं वै भवद्भिश्च कार्यमद्यैव भोःसुराः वेमुः सर्वे तदा विप्रास्तद्रेतः शंकरस्य च॥ २७.
ऐकपद्येन तद्रेतो महापर्वतसन्निभम् २७.
सर्वे च सुखिनो जाता इंद्राद्या देवतागणाः २७.
तेनाग्निनापि चोक्तस्तु शंकरो लोकशंकरः २७.
तद्ब्रूहि मे प्रभोऽद्य त्वं येनाहं सर्वदा सुखी २७.
तदोवाच शिवः साक्षाद्देवानामिह श्रृण्वताम् २७.