निवर्त्य सावनं मासमत्र दिक्पालसंमितम्
प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात्
तापत्रयोपशांतिश्च त्रैलोक्यस्य न संशयः
स्थापय स्थिरया भक्त्या सदालोकहिताय च
महोत्सवसमायुक्तं यावद्दशदिनावधि 1.3.1.12.
सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम
एतत्कृतं ते लोकानां रक्षायै संभविष्यति
उभयं कर्तुमारेभे तपसा शैलकन्यका
उदजृंभत तीर्थानां नवकं तत्र तत्क्षणात्
तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया
अंतर्वसतितः कांत्या मेचकीकृतमंजसा
शम्भोर्विरहसंतप्तं मनश्चंचलतां ययौ
मंदस्मितेन कुमुदं ससर्ज सलिलस्य सा
कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये 1.3.1.12.
अरुणाद्रिमयं लिंगं तुष्टाव जगदंबिका
तेजोमयाद्रिलिंगाय सर्वपाततकनाशिने
अग्निरूपोऽपि सञ्छांतो लोकानुग्रहक्लृप्तये
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे
तेजसां देव सर्वेषां बीजभूतं निगद्यसे
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम्
आविर्बभूव तेजोभिरापूर्य भुवनांतरम्
कालाग्निकोटिसंकाशं तेजः परमदृश्यत
विस्मयाक्रांतहृदया ननंद नलिनेक्षणा 1.3.1.12.
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव
अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात्
जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम्