प्रमथाश्च तथा सर्वे तथा चंडीगणाः परे २७.
शिवस्योद्वहनं विप्राः शिवेन परिभाविताः २७.
पार्वतीसहितः शंभुः शंभुना सह पार्वती २७.
तथा प्रकृतिपुंसौ च ऐकपद्येन नान्यथा २७.
विमास्थस्तदा ब्रह्मा विष्णुश्च गरुडोपरि २७.
पाशी च मकरा रूढो यमो महिषमेव च २७.
मृगारूढोऽथ पवन ईशो वृषभमेव च २७.
स्वैः स्वैर्बलैः परिक्रांतास्तथान्ये प्रमथादयः २७.
सह्याचलो नीलगिरिर्मंदरो मलयाचलः २७.
एते चान्ये च गिरयः क्षीमंतो हि महाप्रभाः २७.
बलिनो रूपिणः सर्वे मेर्वाद्यास्तत्र पर्वताः २७.
नंदिना ह्युपविष्टास्ते मेर्वाद्यास्तत्र पर्वताः सर्वैस्तैर्बंधुभिः सार्द्धं पुनरागमनं कृतम्॥ २७.
स्वकालयस्थो हिमवान्स रेजे हि महा यशा विख्यातो हि महाशैलस्त्रिषु लोकेषु विश्रुतः॥ २७.
कन्यादानेन महता तुष्टो यस्य च शंकरः २७.
द्व्यक्षरं नाम येषां च जिह्वाग्रे संस्थितं सदा ते वै मनुष्यरूपेण रुद्रा एव न संशयः॥ २७.
किंचिद्दानेन संतुष्टः पत्रेणापि तथैव च २७.
पत्रेण पुष्पेण तथा जलेन प्रीतो भवत्येष सदाशिवो हि २७.
एको महाञ्ज्योतिरजः परेशः परापराणां परमो महात्मा २७.
निरंजनो नित्यरूपो निरोधो नित्यानन्दो नित्यमुक्ताः सदेव स्तुतो ध्यातः पूजितश्चिंतितश्च सर्वज्ञोऽसौ सर्वदा सर्वदश्च॥ २७.
यथा वरिष्ठो हिमवान्प्रसिद्धः सर्वैर्गुणैः सर्वगुणो महात्मा २७.
मेनया सह धर्मात्मा यथास्थानगतस्ततः २७.
गतेषु तेषु हिमवान्पुत्रैः पौत्रैः प्रपौत्रकैः २७.
अथो गिरिजया सार्द्धं महेशो गन्धमादने २७.
सुरतेनैव महता तपसा हि समागमे २७.
अनिष्टं महदाश्चर्यं प्रलयोपममेव च २७.
सर्वे ब्रह्मादयो देवाः कार्याकार्यव्यवस्थितौ २७.
सस्मार चाग्निं ब्रह्मा च विष्णुश्चाध्यात्मदायकः २७.
ताभ्यां संप्रेषितोऽपश्यद्रुचिरं शिवमांदिरम् २७.
अग्निर्ह्रस्वस्तदा भूत्वा काश्मीरसदृशच्छविः २७.
अनेकरत्नसंवीतं प्रासादैश्च स्वलं कृतम् २७.