एतान्गणान्वारय भो अत्र मत्तांश्च संप्रति २६.
पांडित्येन महादेव तस्मादेतान्निवारय २६.
वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः २६.
आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता २६.
निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः २६.
तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः २६.
एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा २६.
चत्वारो दिवसा जाताः परिपूर्णेन चेतसा २६.
वस्त्रालंकाराभरणै रत्नैरुच्चावचैस्ततः २६.
लक्ष्मीसमेतं विष्णुं च वस्त्रालंकरणैः शुभैः २६.
इंद्रं पुरोधसा सार्द्धमिंद्राण्या सहितं विभुम् २६.
तथैव पूजिता चंडी भूतप्रमथगुह्यकैः ये चान्य आगतास्तत्र ते च सर्वे प्रपूजिताः॥ २६.
एवं तदानीं प्रतिपूजिताश्च देवाश्च सर्वे ऋषयश्च यक्षाः २६.
तथैव विष्णुना सर्वे पर्वताश्च प्रपूजिताः २७.
माल्यवान्मलयश्चैव महेंद्रो मंदरस्तथा २७.
श्वेतः कृतः श्वेतगिरिर्निलाद्रिश्च तथैव च २७.
मानसाद्रिस्तथा शैलः कैलासः पर्वतोत्तमः २७.
एवं ते पर्वतश्रेष्ठाः पूजिताः सर्व एव हि २७.
विष्णुना ब्रह्मणा सार्द्धं कृतं सर्वं यथोचितम् २७.
हिमाद्रिणा बंधुभिश्च पर्वतं गंधमादनम् २७.
प्रमथाश्च तथा सर्वे तथा चंडीगणाः परे २७.
शिवस्योद्वहनं विप्राः शिवेन परिभाविताः २७.
पार्वतीसहितः शंभुः शंभुना सह पार्वती २७.
तथा प्रकृतिपुंसौ च ऐकपद्येन नान्यथा २७.
विमास्थस्तदा ब्रह्मा विष्णुश्च गरुडोपरि २७.
पाशी च मकरा रूढो यमो महिषमेव च २७.
मृगारूढोऽथ पवन ईशो वृषभमेव च २७.
स्वैः स्वैर्बलैः परिक्रांतास्तथान्ये प्रमथादयः २७.
सह्याचलो नीलगिरिर्मंदरो मलयाचलः २७.
एते चान्ये च गिरयः क्षीमंतो हि महाप्रभाः २७.