न स्थातव्यं भवद्भिश्च भवतां न प्रयोजनम् नारदेन समादिष्टा ययुः सर्वे त्वरान्विताः॥ २६.
नारदेन ततो ब्रह्माऽऽश्वासितो वचनैः शुभैः २६.
महेशस्य तथा विप्राः शांतिपाठपरा बभुः २६.
ततो नीराजितो देवो देवपत्नीभिरुत्तमः २६.
तथा गिरीन्द्रस्य मनोरमाः शुभा नीराजयामासुरथैव योषितः २६.
रत्नानि च महार्हाणि ददौ तेभ्यो महामनाः २६.
बभौ तदानीं सुरसिद्धसंघैर्वेद्यां स्थितोऽसौ सकलत्रको विभुः २६.
एतस्मिन्नंतरे तत्र ब्रह्मविष्णुपुरोगमाः २६.
सर्वान्समभ्यर्च्य तदा महात्मा महान्गिरीशः परमेण वर्चसा २६.
तदा शिवं पुरस्कृत्याभ्यव जह्रुः सुरेश्वराः २६.
पंक्तीभूताश्च बुभुर्लिंगिना श्रृंगिणा सह २६.
अतोषयन्नारदाद्या अनेकालीकसंयुताः २६.
वैतालाः क्षेत्रपालाश्च बुभुजुः कृतभाजनाः २६.
योगिन्योऽथ चतुः षष्टिर्योगिनो हि तथा परे २६.
एवं तु ऋषयः सर्वे तथानये विबुधादयः २६.
योगिन्यश्चैव कथितास्तासां भक्ष्यं वदामि वः २६.
भुंजंति चास्थिसंयुक्तं तथांत्राणि बुभुक्षिताः २६.
तथा केचिन्नृत्यमानास्तदानीं रोरूय्यमाणाः प्रमथाश्चैव चान्ये २६.
योगिनीचक्रमध्यस्थो भैरवो हि ननर्त च २६.
एवं तेषामुद्धवं हि निरिक्ष्य मधुसूदनः २६.
एतान्गणान्वारय भो अत्र मत्तांश्च संप्रति २६.
पांडित्येन महादेव तस्मादेतान्निवारय २६.
वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः २६.
आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता २६.
निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः २६.
तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः २६.
एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा २६.
चत्वारो दिवसा जाताः परिपूर्णेन चेतसा २६.
वस्त्रालंकाराभरणै रत्नैरुच्चावचैस्ततः २६.
लक्ष्मीसमेतं विष्णुं च वस्त्रालंकरणैः शुभैः २६.