पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः॥ २५.
एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम् २५.
गजादुत्तारयामास महेशं पर्वतोत्तमः २५.
मेनया सखिभिः साकं तथैव च पुरोधसा २५.
ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः २५.
अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता २५.
तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह २५.
गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये २५.
ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे २५.
तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः २५.
विलोकयंती शंभुं तं यदर्थे परमं तपः २५.
तपसा तेन संप्राप्तो जगज्जीवनजीवनः २५.
तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः॥ २५.
एवं परस्परं तौ च पार्वतीपरमेश्वरौ २५.
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम् अरुंधत्या तदा तौ च दंपती परमेश्वरौ॥ २५.
अनसूया तथा शंभुं पार्वतीं च यशस्विनीम् २५.
तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः २५.
एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः २५.
हैमं कलशमादाय मेना चार्द्धां गामाश्रिता २५.
तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः २५.
सार्द्धं पुरोधसा चैव गर्गेण सुमहात्मना २५.
प्रयोगो भण्यतां ब्रह्मन्नस्मिन्समय आगते २५.
कथ्यतां तात गोत्रं स्वं कुलं चैव विशेषतः सुमुखेन विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः॥ २५.
एवंविधः सुरवरैर्ऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणैस्तथैव २५.
वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः २५.
इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत् २५.
अस्य गोत्रं कुलं चैव नाद एव परं गिरे २५.
तस्मान्नादमयः शंभुर्नादाच्च प्रतिलभ्यते २५.
अस्य गोत्रं कुलं नाम न जानंति हि पर्वत २५.
त्वं हि मूढत्वमापन्नो न जानासि हि किंचन २५.