तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः २५.
पंचवाद्यप्रघोषेण ब्रह्मघोषेण भूयसा २५.
एवं प्राप्ता यत्र शंभुः सकलैः परिवारितः स्त्रीभिर्मंगलगीतेन सर्वाभरणभूषितः॥ २५.
ऋषयो देवगंधर्वास्तथान्ये पर्वतोत्तमाः बभौ छत्रेण महता ध्रिमाणेन मूर्द्धनि॥ २५.
चामरै वीर्ज्यमानोऽसौ मुकुटेन विराजितः २५.
अग्रगा ह्यपि शोभंतः श्रिया परमया युताः २५.
तथैव गायकाः सर्वे परममंगलम् २५.
अरुंधती महाभागा अनसूया तथैव च २५.
एभिः समेतो जगदेकबंधुर्बभौ तदानीं परमेण वर्चसा २५.
स वीज्यमानः पवनेनः साक्षाच्छत्रं च तस्मै शशिना ह्यधिष्ठितम् २५.
पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः॥ २५.
एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम् २५.
गजादुत्तारयामास महेशं पर्वतोत्तमः २५.
मेनया सखिभिः साकं तथैव च पुरोधसा २५.
ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः २५.
अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता २५.
तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह २५.
गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये २५.
ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे २५.
तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः २५.
विलोकयंती शंभुं तं यदर्थे परमं तपः २५.
तपसा तेन संप्राप्तो जगज्जीवनजीवनः २५.
तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः॥ २५.
एवं परस्परं तौ च पार्वतीपरमेश्वरौ २५.
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम् अरुंधत्या तदा तौ च दंपती परमेश्वरौ॥ २५.
अनसूया तथा शंभुं पार्वतीं च यशस्विनीम् २५.
तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः २५.
एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः २५.
हैमं कलशमादाय मेना चार्द्धां गामाश्रिता २५.
तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः २५.