अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा २५.
यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति॥ २५.
एवं विस्मयमापन्ना विप्रपत्नीभिरावृता २५.
कंचुकी परमा दिव्या नानारत्नैश्च शोभिता २५.
बिभ्रती च तदा हारं दिव्यरत्नविभूषितम् २५.
तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम् २५.
एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत त्वरितेनैव वेलायामस्यामेव विचक्षणाः॥ २५.
तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः २५.
महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः २५.
उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः २५.
आजग्मुः सकलात्रास्ते यत्र देवो महेश्वरः २५.
तथा महर्षिभिस्तत्र तथा देवगणैः सह २५.
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः २५.
तथोद्यतो योगिनाचक्रयुक्ता गणा गणानां गणानां पतिरेकवर्चसाम् २५.
तद्योगिनी चक्रमतिप्रचंडं टंकारभेरीरवनिस्वनेन २५.
कंठे कर्कोटकं नागं हारभूतं च कार सा २५.
कर्णावतंसान्सा दध्रे पाणिपादमयांस्तथा २५.
द्वीपिचर्मपरीधाना योगिनीचक्रसंयुता २५.
तथा प्रेतैश्च भूतैश्च कपटैः परिवारिता ये दक्षयज्ञनाशार्थे शिवेनाज्ञापितास्तदा॥ २५.
तथा काली भैरवी च माया चैव भयावहा २५.
अन्याश्चैव तथा सर्वाः पुरस्कृत्य सदाशिवम् २५.
एताः सर्वा विलोक्याथ शिवभक्तो जनार्द्दनः अनसूयां पुरस्कृत्य तथैव च ह्यरुंधतीम्॥ २५.
चण्डीं कुरु समीपस्थां लोकपालनतां प्रभो॥ २५.
तदुक्तं विष्णुना वाक्यं निशम्य जगदीश्वरः २५.
अत्रैव स्थीयतां चंडीं यावदुद्वहनं भवेत् २५.
एवमाकर्ण्य वचनं शंभोरमिततेजसः २५.
तथान्ये प्रमथाः सर्वे विष्णुमूचुः प्रकोपिताः २५.
त्वया निवारिताः कस्माद्वयमाभ्युदये परे २५.
चण्डीमुद्दिश्य प्रमथानन्यांश्चैव तथाविधान् २५.
एवमुक्तास्तदा तेन चंडीमुख्या गणास्तदा २५.