अविद्यया वृतं तेन कृतं त्वष्ट्रा हि मण्डपम् २४.
विवाहो हि महाभाग अविद्यामूल एव च २४.
नारदं च पुरस्कृत्य सर्वे देवाः सवासवाः अनेकाश्चर्यसंयुक्तं विचित्रं विश्वकर्मणा॥ २४.
कृतं च तेनाद्य पवित्रमुत्तमं तं यज्ञवाटं बहुभिः पुरस्कृतम् २४.
प्रवेक्ष्यमाणास्ते सर्वे सुरेन्द्रा ऋषिभिः सह २४.
तथैव तेषां च मनोहराणि हर्म्याणि तेन प्रतिकल्पितानि वसंति यत्रैव सुखेन तेभ्यः स तत्रतत्रोपवनं चकार॥ २४.
तेषामर्थे महार्हाणि धाराजिरगृहाणि च २४.
निवासार्थे कल्पितानि सावकाशानि तत्र वै २४.
एवं विस्तारयामास विश्वकर्मा बहून्यपि २४.
भैरवाः क्षेत्रपालाश्च येऽन्ये च क्षेत्रवासिनः २४.
अश्वत्थसेविनश्चान्ये खेचराश्च तथा परे २४.
कृतानि च मनोज्ञानि भवनानि महांतिवै २४.
तत्रैव ते सर्वगणैः समेता निवासितास्तेन हिमाद्रिणा स्वयम् २४.
तत्रोपविविशुः सर्वे सत्कृताश्च हिमाद्रिणा २५.
तत्रैव च महामात्रं निर्मितं विश्वकर्मणा २५.
तथैव विष्णोस्त्वपरं भवनं स्वयमेव हि वण्डीगृहं मनोज्ञं च तथैव कृतवान्स्वयम्॥ २५.
तथैव श्वेतं परमं मनोज्ञं महाप्रभं देववरैः सुपूजितम् २५.
तत्रैव शंभुः परया विभूत्या स स्थापितस्तेन हिमाद्रिणा वै॥ २५.
एतस्मिन्नंतरे मेना समायाता सखीगणैः २५.
तदा वादित्रदिर्घोपैर्नादितं भुवनत्रयम् २५.
अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा २५.
यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति॥ २५.
एवं विस्मयमापन्ना विप्रपत्नीभिरावृता २५.
कंचुकी परमा दिव्या नानारत्नैश्च शोभिता २५.
बिभ्रती च तदा हारं दिव्यरत्नविभूषितम् २५.
तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम् २५.
एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत त्वरितेनैव वेलायामस्यामेव विचक्षणाः॥ २५.
तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः २५.
महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः २५.
उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः २५.