तावद्दृष्टो महादेवो देवैश्च परिवारितः २४.
पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम् २४.
एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः २४.
ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः २४.
एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे २४.
पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते २४.
अहो विमोहितस्तेन प्रतिरूपेण भास्वता २४.
ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ॥ २४.
मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव २४.
तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत्॥ २४.
विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः २४.
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः २४.
निवातकवचैः पूर्वं मोहितोऽसि शचीपते २४.
महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना २४.
विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव २४.
जयमिच्छंति वै मूढा न च भेतव्यमण्वपि॥ २४.
एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान् २४.
ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव २४.
तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा मायया मम किं कार्यं वद विष्णो यथातथम्॥ २४.
केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः २४.
तदा शिवोऽपि विश्वात्मा पंचबाणेन मोहितः २४.
एवं च विद्यमानेऽसौ शंभुः परमशोभनः २४.
मदनो हि बली लोके येन सर्वमिदं जगत् २४.
सर्वेषामेव भूतानां देवानां च विशेषतः २४.
पार्वतीस्त्रीस्वरूपेण अजेयो भुवनत्रये २४.
देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः २४.
तपोबलेन महता तथा दानबलेन च २४.
तस्मादनंगस्य महान्क्रोधो हि बलवत्तरः २४.
उवाच वाक्यं वाक्यज्ञो मा चिंतां कुरु वै प्रभो २४.
त्वष्ट्रा कृतं विचित्रं च तत्सर्वं मदनात्प्रभोः २४.