ब्रह्मणा नोदितस्तत्र हिमालयगृहं प्रति २४.
भ्रांतो हि नारदस्तेन कृत्रिमेण महायशाः २४.
प्रविष्टो मंडपं तस्य हिमाद्रे रत्नचित्रितम् २४.
सहस्रस्तम्भसंयुक्तं ततोऽद्रिः स्वगणैर्वृतः २४.
आगतास्ते महात्मानो देवा इन्द्रपुरोगमाः महादेवो वृषारूढो ह्यागतोद्वहनं प्रति॥ २४.
ततस्तद्वचनं श्रुत्वा हिमवान्गिरिसत्तमः २४.
पूजयित्वा यथान्यायं गच्छ त्वं शंकरं प्रति॥ २४.
ततस्तद्वचनं श्रुत्वा मुनिर्हिमवतो गिरेः मेनाकेन च सह्येन मेरुणा गिरिणा सह॥ २४.
एभिः समेतो ह्यधुनामहामते यतस्व शीघ्रं शिवमत्र चानय २४.
तथेति मत्वा स जगाम तूर्णां सहै व तैः पर्वतराजभिश्च २४.
तावद्दृष्टो महादेवो देवैश्च परिवारितः २४.
पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम् २४.
एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः २४.
ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः २४.
एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे २४.
पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते २४.
अहो विमोहितस्तेन प्रतिरूपेण भास्वता २४.
ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ॥ २४.
मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव २४.
तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत्॥ २४.
विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः २४.
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः २४.
निवातकवचैः पूर्वं मोहितोऽसि शचीपते २४.
महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना २४.
विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव २४.
जयमिच्छंति वै मूढा न च भेतव्यमण्वपि॥ २४.
एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान् २४.
ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव २४.
तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा मायया मम किं कार्यं वद विष्णो यथातथम्॥ २४.
केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः २४.