विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते॥ २३.
चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः शोभिताः सर्व एवैते महापुरुषलक्षणाः॥ २३.
तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा॥ २३.
बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः २३.
स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता २३.
तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः २३.
वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः २३.
शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम् २३.
एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः २३.
तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव २४.
आहूय विश्वकर्माणं कारयामास सादरम् २४.
अयुतेनैव विस्तारं योजनानां द्विजोत्तमाः २४.
स्थावरं जंगमं चैव सदृशं च मनोहरम् २४.
जंगमेन च तत्रैव जितं स्थावरमेव च २४.
जलं किं नु स्थलं तत्र न विदुस्तत्त्वतो जनाः २४.
क्वचिच्छिखंडिनस्तत्र कृत्रिमाः सुमनोहराः २४.
के सत्याः के असत्याश्च संस्कृता विश्वकर्मणा २४.
पुंसो धनूंषि चोत्कृष्य स्थावरा जंगमोपमाः २४.
चामरैर्वीज्यमानाश्च केचित्पुष्पांकुरान्विताः २४.
कृत्रिमाश्च तथा बह्व्यः पताकाः कल्पितास्तथा २४.
गजाः स्वलंकृता ह्यासन्कृत्रिमा ह्यकृतोपमाः २४.
रथा रथियुता ह्यासन्कृत्रिमा ह्यकृतोपमाः २४.
महाद्वारि स्थितो नंदी कृतस्तेन हि मंडपे २४.
तस्योपरि महद्दिव्यं पुष्पकं रत्नभूषितम् २४.
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ २४.
तथैव दक्षिणे पार्श्वे द्वावश्वौ दंशितौ कृतौ २४.
षोडशप्रकृतीस्तेन याथातथ्येन धीमता २४.
तथैव ऋषयः सर्वे भृग्वाद्यश्च तपोधनाः २४.
कृताः सर्वे महात्मानो याथातथ्येन धीमता २४.
अनेकाश्चर्यसंभूतो दिव्यो दिव्यविमोहनः २४.