ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा २३.
अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः २३.
अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा बभूवुर्मडनान्येव जातरूपमयानि च॥ २३.
सर्वभूषणसंपन्नो देवदेवो महेश्वरः २३.
चंडिका वरभगिनी तदा जाता भयावहा २३.
हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा २३.
तत्र भूतान्यनेकानि विरूपाणि सहस्रशः २३.
तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः २३.
तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम् २३.
तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः॥ २३.
मध्ये व्रजन्महेंद्रोऽथ ऐरावतमुपास्थितः २३.
चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः २३.
भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति २३.
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः २३.
क्व गता साऽधुना चंडी धावमानास्तदा भृशम् २३.
अथ प्रोचुस्तदा सर्वे चंडीं भैरवसंयुताम् २३.
प्रहस्योवाच सा चंडी भूतानां तत्र श्रृण्वताम् २३.
हैमं कलशमादाय शिरसा बिभ्रती स्वयम् २३.
भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत् २३.
इंद्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः २३.
विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते॥ २३.
चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः शोभिताः सर्व एवैते महापुरुषलक्षणाः॥ २३.
तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा॥ २३.
बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः २३.
स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता २३.
तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः २३.
वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः २३.
शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम् २३.
एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः २३.
तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव २४.