दासोऽहमवदच्छंभुः पार्वत्या परितोषितः २३.
त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति नारदेन समायुक्तः पार्षदैः परिवारितः॥ २३.
सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान् २३.
तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः २३.
तदा हरिहरौ देवावैकपद्येन तिष्ठतः २३.
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः २३.
यथार्थेन च भो विष्णो कथयामि तवाग्रतः २३.
न च संकल्पविधिना मया पाणिग्रहः कृतः २३.
यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम् २३.
यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः २३.
तथैव देवासुरयक्षदानवा नागाः पतंगाप्सरसो महर्षयः २३.
गच्छगच्छ महादेव अस्माभिः सहितः प्रभो २३.
गृह्योक्तविधिना शंभो कर्म कर्तुमिहार्हसि॥ २३.
नांदीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम् २३.
मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो २३.
ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम् २३.
तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः २३.
मार्कंडेयः शिलावाकः शून्यपालोऽक्षतश्रमः २३.
एते चान्ये च बहवो ह्यागताः शिवसन्निधौ २३.
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः २३.
ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा २३.
अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः २३.
अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा बभूवुर्मडनान्येव जातरूपमयानि च॥ २३.
सर्वभूषणसंपन्नो देवदेवो महेश्वरः २३.
चंडिका वरभगिनी तदा जाता भयावहा २३.
हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा २३.
तत्र भूतान्यनेकानि विरूपाणि सहस्रशः २३.
तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः २३.
तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम् २३.
तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः॥ २३.