साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः
आराध्यते महादेवः सर्वदा सर्वदायकः
शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा 1.3.1.11.
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन्
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः
आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात्
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति
प्रणम्य तोषयामास ययाचे शापमोचनम्
महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया
सिद्धानां शिवरूपाणामवज्ञा कं न बाधते
सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः
शापदोषसमुत्पन्ने महिषत्वे विमोचिते 1.3.1.11.
द्रष्टव्यं तैजसं लिंगमरुणाचलसंज्ञितम्
महिषत्वे मदाक्रांतः परं लिंगेन संगतः
दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः
दीक्षादिरहितं लिंगं दत्तं हंतीति चोदितम्
कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः
त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः
दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम्
आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये
अघमर्षणसंयुक्ता सलिंगा स्नानमाचर
आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम् ।। 1.3.1.11.
एवं तस्य मुनेर्निशम्य वचनं शैवार्थसंभावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका
विजहौ गिरिजा शंकां शिवभक्तवधाश्रिताम्
अथांतरिक्षादुदभूद्वाणी कर्णमनोहरा
गंगा च यमुना सिंधुर्गोदापि च सरस्वती
अत्रैव नव तीर्थानि संभवंतु शिलातले
अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते