निमित्तमात्रं च कृतं तया वै शिवपूजने २३.
परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह २३.
ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम् २३.
लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात् २३.
एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः २३.
ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्॥ २३.
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः २३.
गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने २३.
विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा २३.
तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम् २३.
तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान् २३.
एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम् २३.
उवाच नारदं देवो विष्णुमानय सत्वरम् २३.
शंभोर्वचनमादाय शिरसा लोकपावनः २३.
ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम् २३.
महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम् २३.
उवाच नारदोऽभ्येत्य शंभोर्वाक्यमथादरात् २३.
एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः २३.
प्रहस्य भगवान्प्राह नारदं प्रति वै तदा विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान्॥ २३.
तपसा महता रुद्रः पार्वत्या परितोषितः २३.
दासोऽहमवदच्छंभुः पार्वत्या परितोषितः २३.
त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति नारदेन समायुक्तः पार्षदैः परिवारितः॥ २३.
सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान् २३.
तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः २३.
तदा हरिहरौ देवावैकपद्येन तिष्ठतः २३.
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः २३.
यथार्थेन च भो विष्णो कथयामि तवाग्रतः २३.
न च संकल्पविधिना मया पाणिग्रहः कृतः २३.
यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम् २३.
यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः २३.