पूज्यमाना तदा देवी उवाच कमलासनम् २२.
गच्छध्वं सर्व एवैते येन्ये ह्यत्र समागताः २२.
एवं तदानीं स्वपितुर्गृहं गता संशोभमाना परमेण वर्चसा २२.
एतस्मिन्नंतरे तत्र महेशेन प्रणोदिताः २३.
तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः २३.
किमर्थमागता यूयं ब्रूतागमनकारणम् २३.
समागतास्त्वत्सकाशं कन्यायाश्च विलोकने २३.
तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव॥ २३.
इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः २३.
कथमुद्वहनार्थी च येनानंगः कृत स्मरः वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते॥ २३.
मूढाय च विरक्ताय आत्मसंभाविताय च २३.
तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः २३.
तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः २३.
यया कृतं तपस्तीव्रं यया चाराधितः शिवः २३.
अस्यास्तस्य च भोः शैल न जानासि च किंचन २३.
शिवाय गिरिजामेनां कुरुष्य वचनं हि नः २३.
उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः मैनाक क्रियतामद्य शंसध्वं च यथातथम्॥ २३.
मेना तदा उवाचेदं वाक्यं वाक्यविशारदा २३.
उत्पन्नेयं महाभागा देवकार्यार्थमेव च २३.
अनयाराधितो रुद्रो रुद्रेण परिभाविता २३.
निमित्तमात्रं च कृतं तया वै शिवपूजने २३.
परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह २३.
ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम् २३.
लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात् २३.
एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः २३.
ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्॥ २३.
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः २३.
गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने २३.
विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा २३.
तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम् २३.