तदोवाच महाबाहो गिरिजां प्रहसन्निव जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम्॥ २२.
अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति २२.
नभसो वायुरुत्पन्नो वायोरग्निरजायत २२.
मह्यादिकानि स्थास्नूनि चराणि च वरानने २२.
एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम्॥ २२.
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या २२.
के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः २२.
गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः २२.
व्यापारदक्षा सततमहं चैव सुमध्यमे २२.
देहीति वचनात्सद्यः पुरुषो याति लाघवम् २२.
कार्यं त्वदाज्ञया भद्रे तत्सर्वं वक्तुमर्हसि २२.
त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा २२.
देहो ह्यविद्ययाक्षिप्तो विदेहो हि भवान्परः २२.
प्रपंचरचनां शंभो कुरु वाक्यान्मम प्रभो २२.
इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडंबनाय २२.
एतस्मिन्नंतरे तत्र हिमवान्गिरिभिः सह २२.
पार्वतीदर्शनार्थं च सुतैश्च परिवारितः २२.
पार्वत्या च तदा दृष्टो हिमवान्गिरिभिः सह पितरौ च तदा भ्रातॄन्बंधूंश्चैव च सर्वशः॥ २२.
स्वमंकमारोप्य महायशास्तदा सुतां परिष्वज्य च बाष्पपूरितः २२.
तत्कथ्यतां महाभागे सर्वं शुश्रूषतां हि नः २२.
तपसा परमेणैव प्रार्थितो मदनांतकः २२.
तत्र तुष्टो महादेवो वरणार्थं समागतः २२.
क्रियते च तदा शंभो मम पित्रा विनाधुना २२.
तस्यास्तद्वचनं श्रुत्वा अवाप परमां मुदम् २२.
स्वगृहं चाद्य गच्छामो वयं सर्वे च भूधराः २२.
इत्यूचुस्ते सुराः सर्वे हिमालयपुरोगमाः २२.
तां स्तूयमानां च तदा हिमालयो ह्यारोप्य चांसं वरवर्णिनीं च २२.
देवदुंदुभयो नेदुः शंखतूर्याण्यनेकशः २२.
पुष्पवर्षेण महता तेनानीता गृहं प्रति॥ २२.
सा पूज्यमाना बहुभिस्तदानीं महाविभूत्युल्लसिता तपस्विनी २२.