सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति २२.
हिंसेर्ष्या च प्रपंचश्च तेन सर्वं विनश्यति २२.
यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः २२.
एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम् २२.
एवं विवदमानं तं बटुरूपं सदाशिवम् २२.
तिरोधानं गतः सद्यो महेशो गिरिजां प्रति २२.
प्रादुर्बभूव सहसा निजरूपधरस्तदा २२.
तदा हृदिस्थो देवेशो बहिर्दृष्टिचरोभवत् अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम्॥ २२.
द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम् २२.
कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा २२.
वलयानि महार्हाणि तदा सर्पमयानि च २२.
एवंभूतस्तदा शंभुः पार्वतीं प्रति चाग्रतः २२.
व्रीडया परया युक्ता साध्वी प्रोवाच शंकरम् २२.
दक्षयज्ञविनाशं च यदर्थं कृतवान्प्रभो २२.
देवानां देवदेवेश तारकस्य वधं प्रति २२.
तस्मात्त्वया हि कर्तव्यं मम वाक्यं महेश्वर २२.
याचस्व मां महादेव ऋषिभिः परिवारितः २२.
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ७२२.
न ग्रहाः पूजितास्तेन दक्षेण च महात्मना २२.
तस्माद्यथोक्तविधिना कर्तुमर्हसि सुव्रत २२.
तदोवाच महाबाहो गिरिजां प्रहसन्निव जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम्॥ २२.
अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति २२.
नभसो वायुरुत्पन्नो वायोरग्निरजायत २२.
मह्यादिकानि स्थास्नूनि चराणि च वरानने २२.
एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम्॥ २२.
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या २२.
के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः २२.
गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः २२.
व्यापारदक्षा सततमहं चैव सुमध्यमे २२.
देहीति वचनात्सद्यः पुरुषो याति लाघवम् २२.