यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा २२.
शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः २२.
तेन रुद्रेण किं कार्यमनया सुकुमारया २२.
इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम् २२.
कुबेरं पवनं चैव तथैव च विभावसुम् सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता॥ २२.
इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः २२.
जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि २२.
किमेतस्य बटोः कार्यं भवतीनामिहाधुना २२.
अयं विसृज्यतां सख्यः किमनेन प्रयोजनम् २२.
बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना २२.
बटुर्निर्भर्त्सितस्तत्र तया चैवं तदा पुनः २२.
शनैः शनैरवितथं विजयां प्रति सत्वरम् २२.
सर्वेषामपि तद्वाच्यं वचनं सूक्तमेव यत् २२.
यः शंभुरुच्यते लोके भिक्षुको भिक्षुकप्रियः २२.
इयं तावत्सुरूपा च विरूपोऽसौ सदाशिवः २२.
एवंभूतेन रुद्रेण मोहितेयं कथं भवेत् २२.
इयं कथं मोहितास्ति निर्गुणेन युगात्मिका २२.
सकामानां च भूतानां दुर्लभो हि सदाशिवः २२.
निःस्तंभो हि सदा स्थाणुः कथं प्राप्स्यति तं पतिम् २२.
यावद्रोषो भवेन्नॄणां नारीणां च विशेषतः २२.
सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति २२.
हिंसेर्ष्या च प्रपंचश्च तेन सर्वं विनश्यति २२.
यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः २२.
एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम् २२.
एवं विवदमानं तं बटुरूपं सदाशिवम् २२.
तिरोधानं गतः सद्यो महेशो गिरिजां प्रति २२.
प्रादुर्बभूव सहसा निजरूपधरस्तदा २२.
तदा हृदिस्थो देवेशो बहिर्दृष्टिचरोभवत् अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम्॥ २२.
द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम् २२.
कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा २२.