गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः २२.
परात्परतरं स्वच्छं निर्मलं निरवग्रहम् २२.
भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि २२.
अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम् २२.
शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम् २२.
तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः २२.
गिरिजा हि तदा देवी तताप परमं तपः २२.
विजित्य तपसा देवी पार्वती परमेण हि २२.
यदा जितस्तया देव्या तपसा वृषभध्वजः २२.
जगाम त्वरितेनैव देवदेवः पिनाकधृक् २२.
वेदिकोपरि विन्यस्तां यथैव शशिनः कलाम् २२.
ब्रह्मचारिस्वरूपेण महेशो भगवान्भवः किमर्थमालिमध्यस्था तन्वी सर्वांगसुन्दरी॥ २२.
केयं कस्य कुतो याता किमर्थं तप्यते तपः २२.
तदोवाच जया रुद्रं तपसः कारणं परम्॥ २२.
हिमाद्रेर्दुहितेयं वै तपसा रुद्रमीश्वरम् २२.
तपस्तताप सुमहत्सर्वेषां दुरतिक्रमम् २२.
तच्छ्रुत्वा वचनं तस्याः प्रहस्येदमुवाच ह २२.
मूढेयं पार्वती सख्यो न जानाति हिताहितम् २२.
सोऽमंगलः कपाली च श्मशानालय एव च २२.
अनया हि वृतो रुद्रो यदा सख्यः समेष्यति २२.
यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा २२.
शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः २२.
तेन रुद्रेण किं कार्यमनया सुकुमारया २२.
इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम् २२.
कुबेरं पवनं चैव तथैव च विभावसुम् सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता॥ २२.
इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः २२.
जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि २२.
किमेतस्य बटोः कार्यं भवतीनामिहाधुना २२.
अयं विसृज्यतां सख्यः किमनेन प्रयोजनम् २२.
बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना २२.