ब्रह्मादयः सुरगणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विशेषयंति २२.
तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः २२.
शनैःशनैरुपरमच्छंभुः परमकोपनः २२.
कस्माद्यूयं महाभागा ह्यागता मत्समीपगाः २२.
तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम् २२.
कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः तारको देवशत्रुश्च नान्यथा मम भाषितम्॥ २२.
तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन २२.
ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः २२.
तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा २२.
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये २२.
तदानीमेव भो देवाः पार्वती मदनं च सा २२.
एवं विमृश्य भो देवाः कार्या कार्यविचारणा २२.
यूयं सर्वे च निष्कामा मया नास्त्यत्र संशयः २२.
तपः परमसंयुक्ताः पारयामः सुदुष्करम् २२.
यूयं समाधिना तेन मदनेन च विस्मृतम् २२.
क्रोधाद्भवति संमोहः संमोहाद्भ्रमते मनः सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्॥ २२.
एवं विश्राव्य भगवान्स हि देवो वृषध्वजः २२.
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः २२.
ध्यानास्थितं च तं दृष्ट्वा नन्दौ सर्वान्विसृज्य तान् २२.
यतागतेन मार्गेण गच्छध्वं मा विलंबितम् २२.
गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः २२.
परात्परतरं स्वच्छं निर्मलं निरवग्रहम् २२.
भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि २२.
अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम् २२.
शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम् २२.
तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः २२.
गिरिजा हि तदा देवी तताप परमं तपः २२.
विजित्य तपसा देवी पार्वती परमेण हि २२.
यदा जितस्तया देव्या तपसा वृषभध्वजः २२.
जगाम त्वरितेनैव देवदेवः पिनाकधृक् २२.