त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान् शेषासने चोपविष्ट उवाच परमेश्वरः॥ २१.
युष्माभिः सहितश्चापि व्रजामि परमेश्वरम् २१.
पाणिग्रहार्थमधुना देवदेवः पिनाकधृक् २१.
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः २१.
विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः २१.
यदा दग्धः पुरा तेन मदनो दुरतिक्रमः २१.
प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः २१.
स न धक्ष्यति सर्वेषां देवानां भयनाशनः २१.
शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम् २१.
एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना २२.
परे पारे परमेण समाधिना २२.
यज्ञोपवीतविधिना उरसा बिभ्रतं वृतम् २२.
कर्णद्वये धारयंतं तथा कर्कोटकेन हि २२.
सन्नूपुरे शङ्खकपद्मकाभ्यां संधारयंतं च विराजमानम् २२.
तदा ब्रह्मा च विष्णुश्च ऋषयो देवदानवाः २२.
नमो रुद्राय देवाय मदनांतकराय च २२.
शिपिविष्टाय भीमाय शेषशायिन्नमोनमः २२.
त्वं धाता सर्वलोकानां पिता माता त्वमीश्वरः २२.
इत्थं स्तुवत्सु देवेषु नन्दी प्रोवाच तान्प्रति २२.
ते प्रोचुर्देवकार्यार्थं विज्ञप्तुं शंभुमागता ध्यानस्थितो महादेवः सुरकार्यार्थसिद्धये॥ २२.
ब्रह्मादयः सुरगणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विशेषयंति २२.
तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः २२.
शनैःशनैरुपरमच्छंभुः परमकोपनः २२.
कस्माद्यूयं महाभागा ह्यागता मत्समीपगाः २२.
तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम् २२.
कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः तारको देवशत्रुश्च नान्यथा मम भाषितम्॥ २२.
तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन २२.
ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः २२.
तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा २२.
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये २२.