तथैव मेनया चोक्ता तथा सह्याद्रिणा सती २१.
एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता २१.
पुरा प्रोक्तं त्वया तात अंब किं विस्मृतं त्वया २१.
विरक्तोऽसौ महादेवो मदनो येन वै हतः २१.
सर्वे यूयं च गच्छंतु नात्र कार्या विचारणा २१.
तमानयामि चात्रैव तपसा केवलेन हि २१.
तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम्॥ २१.
संभाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम् जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः॥ २१.
गतेषु तेषु सर्वेषु सखीभिः परिवारिता २१.
तपसा तेन महता तप्तमासीच्चराचरम् २१-
त्वया सृष्टमिदं सर्वं जगद्देव चराचरम् २१.
अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा २१.
गिरिजातपसोद्भूतं दावाग्निं परमं महत् २१.
तत्र सुप्तं सुप्लयंके शेषाख्ये चातिशोभने २१.
दूरस्थेनापि तार्क्ष्येण नतकंधरधारिणा २१.
नवशक्तियुतं विष्णुं पार्पदैः परिवारितम् २१.
सनातनो महाभागः प्रसुप्तो विजयोऽरिजित् २१.
सनत्कुमारः सुतपा नारदश्चैव तुंबुरुः २१.
सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम् २१.
विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा २१.
त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान् शेषासने चोपविष्ट उवाच परमेश्वरः॥ २१.
युष्माभिः सहितश्चापि व्रजामि परमेश्वरम् २१.
पाणिग्रहार्थमधुना देवदेवः पिनाकधृक् २१.
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः २१.
विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः २१.
यदा दग्धः पुरा तेन मदनो दुरतिक्रमः २१.
प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः २१.
स न धक्ष्यति सर्वेषां देवानां भयनाशनः २१.
शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम् २१.
एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना २२.