सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत्
आदत्त सहसा गौरी लिगं तस्य गले स्थितम्
आसज्जत पुनर्लिंगमस्याः पाणितलं गतम्
अचिंतयच्च सा देवी किमेतदिति विस्मयात् 1.3.1.11.
आहतः शिवभक्तोऽयमिति शोकं समाविशत्
अविचार समारब्धं शिवभक्तनिबर्हणम्
उपगम्याब्रवीद्बाला साहसं कृतमात्मना
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम्
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः
विशेषतो लिंगधराः शिवस्तान्बहु मन्यते
अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः
कथं पापं निरस्यामि शिवभक्तवधाश्रितम्
तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति 1.3.1.11.
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम्
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके
आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः
तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते
महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः
साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः
आराध्यते महादेवः सर्वदा सर्वदायकः
शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा 1.3.1.11.
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन्
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः
आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात्
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति
प्रणम्य तोषयामास ययाचे शापमोचनम्