संपर्केण च दग्धोऽसि नान्यथा मम भाषितम् २१.
विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि २१.
इत्युच्यमानेन तदा नीता सा प्रसभं तथा २१.
कृता महानसेऽध्यक्षा नाम्ना मायावतीति च॥ २१.
पार्वत्याधिकृतं सर्वं मदनानयनं प्रति अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम्॥ २१.
गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा २१.
पित्रा तेन तदा तन्वी मात्रा चैव विचारिता २१.
उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत्॥ २१.
नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः २१.
शंभुः परेषां परमो दग्धो येन महाबलः २१.
दुर्लभोहि तदा शंभुः प्राणिनां गृहमिच्छताम् २१.
तदोवाच महातेजा हिमवान्स्वसुतां प्रति त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज॥ २१.
सा बाष्पपूरितेनैव कंठेन स्वसुतां प्रति २१.
तदा प्रहस्य चोवाच मातरं प्रति पार्वती २१.
अत्रैव तं समानीय वरयामि विचक्षणम् २१.
सुखरूपं परित्यज्य गिरिजा च मनस्विनी २१.
जया च विजया चैव माधवी च सुलोचना २१.
प्रम्लोचा सुभगा श्यामा चित्रांगी चारुणी स्वधा उपासांचक्रिरे सा च देवगर्भा च भामिनी॥ २१.
तपसा परमोग्रेण चरंती चारुहासिनी तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता॥ २१.
त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा २१.
शुष्काणि चैव पर्णानि नाशितानि तया यदा २१.
वायुपानरता जाता अंबुपानादनंतरम् एकांगुष्ठेन च तदा दधार च निजं वपुः॥ २१.
एवमुग्रेण तपसा शंकराराधनं सती २१.
परं भावं समाश्रित्य जगन्मंगलमंगला २१.
एवं दिव्यसहस्राणि वर्षाणि च तताप वै २१.
सभार्यः स सुतामाप्त उवाच च महासतीम् २१.
क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः २१.
भविष्यति न संदेहः सत्यं प्रतिवदामि ते २१.
किं तेन तव रुद्रेण ये दग्धः पुराऽनघे २१.
गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते २१.