धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम् २१.
कथं त्वया हि संदग्धः कामो हि दुरतिक्रमः २१.
कामेन हीयते विश्वं कामेन पाल्यते २१.
यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः २१.
त्वया संपादितो देव मदनो हि महाबलः २१.
ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः २१.
मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः २१.
मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा २१.
तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम् २१.
तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी २१.
एवं विमृश्य सुचिरं गिरिजा तदानीं संमोहमाप च सती हि तथा बभाषे २१.
मा विषादं कुरु सखि मदनं जीवयाम्यहम् २१.
हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम् २१.
एवम श्वास्य तां साध्वी गिरिजां रतिरंजसा २१.
मदनो यत्र दग्धश्च रुद्रेण परमात्मना २१.
उवाच गत्वा सहसा भामिनीं रतिमंतिके २१.
तरुणी रूपसंपन्ना सौभाग्येन परेण हि उवाच वाक्यं मधुरं किंचिन्निष्ठुरमेव च॥ २१.
नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः २१.
यथागतेन मार्गेण गच्छ त्वं मा विलंबितम् २१.
परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये २१.
एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः २१.
शशंस दैत्यराजाय दग्धं मदनमेव च २१.
तामानय महाभाग भार्यां कुरु महाबल तासां मध्ये रूपवती रतिः सा मदनप्रिया॥ २१.
एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः २१.
तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम् २१.
एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः २१.
एवमुक्ता तदा तेन शंबरेण महात्मना २१.
विधवाहं महाबाहो नैवं भाषितुमर्हसि २१.
एतत्तद्वचनं श्रुत्वा शंबरः काममोहितः २१.
विमृश्य मनसा सर्वमजेयत्वं च तस्य वै २१.