मेनका वीरभद्रेण चण्डेन पुंजिकस्थली २१.
अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः २१.
अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः २१.
द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः २१.
मत्ता मदनसंगेन हंसीभिः कलहंसकाः २१.
निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः २१.
शैलादो हि महातेजा नंदी ह्यमितविक्रमः २१.
एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः तरोश्छायां समाश्रित्य देवदारुगतां तदा॥ २१.
निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम् २१.
भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम् २१.
दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम्॥ २१.
कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम् २१.
तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात् ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्॥ २१.
चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम् २१.
गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम् २१.
उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि २१.
तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम् विस्मयोत्फुल्लनयनो बभूव सहसा शिवः॥ २१.
एवं विलोकमानोऽसौ देवदेवो जगत्पतिः २१.
अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः २१.
ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम् २१.
चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम् तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः॥ २१.
निरीक्षितस्तृतीयेन चक्षुषा परमेण हि हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥ २१.
देवदेव महादेव देवानां वरदो भव २१.
वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः॥ २१.
त्वया हि कार्यं जगदेकबंधो कार्यं सुराणां परमेण वर्चसा २१.
तारकेण महादेव देवाः संपीडिता भृशम् २१.
वरयस्व महाभाग देवाकार्ये भव क्षमः २१.
कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा २१.
मदनोयं समायातः सुराणां कार्यसिद्धये २१.
विना तेन जगत्सर्वं नाशमेष्यति शंकर २१.