मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः २१.
गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि २१.
भरद्वाजो महाभाग इत्युवाच गुरुस्तदा २१.
क्रोधो हि मम बंधुश्च महाबलपरक्रमः ब्रह्मादिस्तंबपर्यंतं प्लावितं सचराचरम्॥ २१.
मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि पार्वत्या सहितं शंभुं कुरुष्वाद्य महामते॥ २१.
एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः २१.
ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत् तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः॥ २१.
तत्रागता तदा रंभा उर्वशी पुंजिकस्थली २१.
अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च २१.
सर्वे गणाश्च सहसा मदनेन विमोहिताः २१.
मेनका वीरभद्रेण चण्डेन पुंजिकस्थली २१.
अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः २१.
अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः २१.
द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः २१.
मत्ता मदनसंगेन हंसीभिः कलहंसकाः २१.
निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः २१.
शैलादो हि महातेजा नंदी ह्यमितविक्रमः २१.
एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः तरोश्छायां समाश्रित्य देवदारुगतां तदा॥ २१.
निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम् २१.
भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम् २१.
दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम्॥ २१.
कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम् २१.
तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात् ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्॥ २१.
चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम् २१.
गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम् २१.
उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि २१.
तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम् विस्मयोत्फुल्लनयनो बभूव सहसा शिवः॥ २१.
एवं विलोकमानोऽसौ देवदेवो जगत्पतिः २१.
अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः २१.
ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम् २१.